अथ द्वितीयोऽध्यायः
औषधभक्षणार्हकालस्य सामान्यनिर्देशः
भैषज्यमभ्यवहरेत्प्रभाते प्रायशो बुधः
कषायांश्च विशेषेण तत्र भेदस्तु दर्शितः १
औषधभक्षणे पञ्चविधकालनिर्देशः
ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम्
किंचित्सूर्योदये जाते तथा दिवसभोजने २
सायन्तने भोजने च मुहुश्चापि तथा निशि ३
तत्र प्रथमः कालः
प्रायः पित्तकफोद्रे के विरेकवमनार्थयोः
लेखनार्थं च भैषज्यं प्रभाते तत्समाहरेत्
एवं स्यात् प्रथमः कालो भैषज्यग्रहणे नृणाम् ४
द्वितीयः कालः
भैषज्यं विगुणेऽपाने भोजनाग्रे प्रशस्यते
अरुचौ चित्रभोज्यैश्च मिश्रं रुचिरमाहरेत् ५
समानवाते विगुणे मन्देऽग्नावग्निदीपनम्
दद्याद्भोजनमध्ये च भैषज्यं कुशलो भिषक् ६
व्यानकोपे च भैषज्यं भोजनान्ते समाहरेत्
हिक्काऽक्षेपककम्पेषु पूर्वमन्ते च भोजनात् ७
एवं द्वितीयकालश्च प्रोक्तो भैषज्यकर्मणि ८
तृतीयः कालः
उदाने कुपिते वाते स्वरभङ्गादिकारिणि
ग्रासे ग्रासान्तरे देयं भैषज्यं सान्ध्यभोजने
प्राणे प्रदुष्टे सान्ध्यस्य भुक्तस्यान्ते च दीयते
औषधं प्रायशो धीरैः कालोऽय स्यात्तृतीयकः १०
चतुर्थः कालः
मुहुर्मुहुश्च तृट्च्छर्दिहिक्काश्वासगरेषु च
सान्नं च भेषजं दद्यादितिकालश्चतुर्थकः ११
पञ्चमः कालः
ऊर्ध्वजत्रुविकारेषु लेखने बृंहणे तथा
पाचनं शमनं देयमनन्नं भेषजं निशि
इति पञ्चमकालः स्यात् प्रोक्तो भैषज्यकर्मणि १२
द्र व्ये रसादयः पञ्चावस्थाः
द्र व्ये रसो गुणो वीर्यं विपाकः शक्तिरेव च
संबन्धेन क्रमादेताः पञ्चावस्थाः प्रकीर्त्तिताः १३
तत्र रसः
मधुरोऽम्ल पटुश्चैव कटुतिक्तकषायकाः
इत्येते षड्रसाः ख्याता नानाद्र व्यसमाश्रिताः १४
मधुरादिरसोत्पत्तिः
धराऽम्बुक्ष्माऽनलजलज्वलनाकाशमारुतैः
वाय्वग्निक्ष्माऽनिलैभूर्तद्वयै रसभवः क्रमात् १५
गुणाः
गुरुः स्निग्धश्च तीक्ष्णश्च रूक्षो लघुरिति क्रमात्
धराऽम्बुवह्निपवनव्योम्नां प्रायो गुणाः स्मृताः १६
एष्वेवान्तर्भवन्त्यन्ये गुणेषु गुणसंचयाः १७
वीर्यम्
वीर्यमुष्णं तथा शीतं प्रायशो द्र व्यसंश्रयम्
तत्सर्वमग्नीषोमीयं दृश्यते भुवनत्रये
अत्रैवान्तर्भविष्यन्ति वीर्याण्न्यानि यान्यपि १८
विपाकः
त्रिधा विपाको द्र व्यस्य स्वाद्वम्लकटुकात्मकः
मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः १९
कषायकटुतिक्तानां पाकः स्यात्प्रायशः कटुः
मधुराज्जायते श्लेष्मा पित्तमम्लाच्च जायते २०
कटुकाज्जायते वायुः कर्माणीति विपाकतः २१
प्रभावः
प्रभावस्तु यथा धात्री लकुचस्य रसादिभिः
समाऽपि कुरुते दोषत्रितयस्य विनाशनम् २२
क्वचित्तु केवलं द्र व्यं कर्म कुर्यात्प्रभावतः
ज्वरं हन्ति शिरोबद्धा सहदेवीजटा यथा २३
रसवीर्यादीनां पृथक् पृथक् प्रभावः
क्वचिद्र सो गुणो वीर्यं विपाकः शक्तिरेव च
कर्म स्वं स्वं प्रकुर्वन्ति द्र व्यमाश्रित्य ये स्थिताः २४
ऋतुभेदेन वातादीनां संचयकोपोपशमाः
चयकोपशमा यस्मिन्दोषाणां सम्भवन्ति हि
ऋतुषट्कं तदाख्यातं रवे राशिषु संक्रमात् २५
राशिक्रमेण ऋतुषट्कनिर्देशः
ग्रीष्मो मेषवृषौ प्रोक्तः प्रावृण्मिथुनकर्कयोः
सिंहकन्ये स्मृता वर्षास्तुलावृश्चिकयोः शरत्
धनुर्ग्राहौ च हेमन्तो वसन्तः कुम्भमीनयोः २६
वातादिदोषत्रयस्य चयकोपशमाः
ग्रीष्मे सञ्चीयते वायुः प्रावृट्काले प्रकुप्यति
वर्षासु चीयते पित्तं शरत्काले प्रकुप्यति २७
हेमन्ते चीयते श्लेष्मा वसन्ते च प्रकुप्यति
प्रायेण प्रशमं याति स्वयमेव समीरणः २८
शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः २९
यमदंष्ट्रासमयनिर्देशः
कार्त्तिकस्य दिनान्यष्टावष्टावाग्रयणस्य च
यमदंष्ट्रा समाख्याता स्वल्पभुक्तो हि जीवति ३०
दोषाणामकालेऽपि भोजनादिना चयकोपापचयाः
चयकोपशमा दोषा विहाराहारसेवनैः
समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्ययम् ३१
वायोः प्रकोपशमहेतवः
लघुरूक्षमिताहारादतिशीताच्छ्रमात्तथा
प्रदोषे कामशोकाभ्यां भीचिन्तारात्रिजागरैः ३२
अभिघातादपां गाहाज्जीर्णेऽन्ने धातुसंक्षयात्
वायुः प्रकोपं यात्येभिः प्रत्यनीकैश्च शाम्यति ३३
पित्तस्य प्रकोपशमहेतवः
विदाहिकटुकाम्लोष्णभोज्यैरत्युष्णसेवनात्
मध्याह्ने क्षुत्तृषारोधाज्जीर्यत्यन्नेऽद्धरात्रके
पित्तं प्रकोपं यात्येभिः प्रत्यनीकैश्च शाम्यति ३४
कफस्य प्रकोपशमहेतवः
मधुरस्निग्धशीतादिभोज्यैर्दिवसनिद्र या
मन्देऽग्नौ च प्रभाते च भुक्तमात्रे तथाऽश्रमात्
श्लेष्मा प्रकोपं यात्येभिः प्रत्यनीकैश्च शाम्यति ३६
इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे भैषज्याख्यानकं नाम द्वितीयोऽध्यायः