अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः । । १। ।
पदच्छेदः - अन्वयः-
अथ अतः दीर्घञ्जीवितीयम् अध्यायम् व्याख्यास्यामः
इति ह स्माह भगवानात्रेयः । । २। ।
इति ह भगवान् आत्रेयः आह स्म
दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत् ।
इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम् । । ३। ।
दीर्घम् जीवितम् अन्विच्छन् उग्रतपाः भरद्वाजः अमरेश्वरम् इन्द्रम् शरण्यम् बुद्ध्वा उपागमत्
ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः ।
जग्राह निखिलेनादावश्विनौ तु पुनस्ततः । । ४ । ।
ब्रह्मणा हि यथाप्रोक्तम् आयुर्वेदम् निखिलेन प्रजापतिः जग्राह तु ततः पुनः आदौ अश्विनौ
अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम् ।
ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत् । । ५ । ।
अश्विभ्याम् ह केवलम् भगवान् शक्रः प्रतिपेदे तस्मात् ऋषिप्रोक्तः भरद्वाजः शक्रम् उपागमत्
विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम् ।
तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् । । ६। ।
यदा तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् शरीरिणाम् विघ्नभूताः रोगाः प्रादुर्भूताः
तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः ।
समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे ।। ७ ।।
तदा भूतेषु अनुक्रोशम् पुरस्कृत्य हिमवतः शुभे पार्श्वे पुण्यकर्माणः महर्षयः समेताः
अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः ।
आत्रेयो गौतमः साङ्ख्यः पुलस्त्यो नारदोऽसितः । । ८ । ।
अङ्गिराः जमदग्निः च वसिष्ठः कश्यपः भृगुः आत्रेयः गौतमः साङ्ख्यः पुलस्त्यः नारदः असितः
अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ ।
पारिक्षिर्भिक्षुरात्रेयो भरद्वाजः कपिञ्जलः । । ९। ।
अगस्त्यः वामदेवः च मार्कण्डेयाश्वलायनौ पारिक्षिः भिक्षुः आत्रेयः भरद्वाजः कपिञ्जलः
विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित् ।
गार्ग्यः शाण्डिल्यकौण्डिल्यौ वार्क्षिर्देवलगालवौ । । १० । ।
विश्वामित्राश्मरथ्यौ च भार्गवः च्यवनः अभिजित् गार्ग्यः शाण्डिल्यकौण्डिल्यौ वार्क्षिः देवलगालवौ