अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥ १.००१.०१
अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् ।
होता॑रम् । र॒त्न॒ऽधात॑मम् ॥ १.००१.०१
अनुवादः
मराठी हिन्दी English टीका/भाष्यम्
अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।
स दे॒वाँ एह व॑क्षति ॥ १.००१.०२
अ॒ग्निः । पूर्वे॑भिः । ऋषि॑ऽभिः । ईड्यः॑ । नूत॑नैः । उ॒त ।
सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥ १.००१.०२
अनुवादः
मराठी हिन्दी English टीका/भाष्यम्
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
य॒शसं॑ वी॒रव॑त्तमम् ॥ १.००१.०३
अ॒ग्निना॑ । र॒यिम् । अ॒श्न॒व॒त् । पोष॑म् । ए॒व । दि॒वेऽदि॑वे ।
य॒शस॑म् । वी॒रव॑त्ऽतमम् ॥ १.००१.०३
अनुवादः
मराठी हिन्दी English टीका/भाष्यम्
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ ।
स इद्दे॒वेषु॑ गच्छति ॥ १.००१.०४
अग्ने॑ । यम् । य॒ज्ञम् । अ॒ध्व॒रम् । वि॒श्वतः॑ । प॒रि॒ऽभूः । असि॑ ।
सः । इत् । दे॒वेषु॑ । ग॒च्छ॒ति॒ ॥१.००१.०४
अनुवादः
मराठी हिन्दी English टीका/भाष्यम्
अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः ।
दे॒वो दे॒वेभि॒रा ग॑मत् ॥ १.००१.०५
अ॒ग्निः । होता॑ । क॒विऽक्र॑तुः । स॒त्यः । चि॒त्रश्र॑वःऽतमः ।
दे॒वः । दे॒वेभिः॑ । आ । ग॒म॒त् ॥ १.००१.०५
अनुवादः
मराठी हिन्दी English टीका/भाष्यम्
यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ ।
तवेत्तत्स॒त्यम॑ङ्गिरः ॥ १.००१.०६
यत् । अ॒ङ्ग । दा॒शुषे॑ । त्वम् । अग्ने॑ । भ॒द्रम् । क॒रि॒ष्यसि॑ ।
तव॑ । इत् । तत् । स॒त्यम् । अ॒ङ्गि॒रः॒ ॥१.००१.०६
अनुवादः
मराठी हिन्दी English टीका/भाष्यम्
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् ।
उप॑ । त्वा॒ । अ॒ग्ने॒ । दि॒वेऽदि॑वे । दोषा॑ऽवस्तः । धि॒या । व॒यम् ।
नमः॑ । भर॑न्तः । आ । इ॒म॒सि॒ ॥१.००१.०७
अनुवादः
मराठी हिन्दी English टीका/भाष्यम्
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् ।
वर्ध॑मानं॒ स्वे दमे॑ ॥ १.००१.०८
राज॑न्तम् । अ॒ध्व॒राणा॑म् । गो॒पाम् । ऋ॒तस्य॑ । दीदि॑विम् ।
वर्ध॑मानम् । स्वे । दमे॑ ॥ १.००१.०८
अनुवादः
मराठी हिन्दी English टीका/भाष्यम्
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
सच॑स्वा नः स्व॒स्तये॑ ॥ १.००१.०९
सः । नः॒ । पि॒ताऽइ॑व । सू॒नवे॑ । अग्ने॑ । सु॒ऽउ॒पा॒य॒नः । भ॒व॒ ।
सच॑स्व । नः॒ । स्व॒स्तये॑ ॥ १.००१.०९
अनुवादः
मराठी हिन्दी English टीका/भाष्यम्