अथ निरूहबस्तिविधिर्नाम षष्ठोऽध्यायः
तत्र तद्भेदानाह
निरूहबस्तिर्बहुधा भिद्यते कारणान्तरैः
तैरेव तस्य नामानि कृतानि मुनिपुङ्गवैः १
निरूहस्यापरं नाम प्रोक्तमास्थापनं बुधैः
स्वस्थानस्थापनाद्दोषधातूनां स्थापनं मतम् २
दोषाद्यपेक्षया निरूहमात्राः
निरूहस्य प्रमाणं च प्रस्थं पादोत्तरं परम्
मध्यमं प्रस्थमुद्दिष्टं हीनस्य कुडवास्त्रयः ३
आस्थापनबस्त्यनर्हा जनाः
अतिस्निग्धोत्क्लिष्टदोषौ क्षतोरस्कः कृशस्तथा
आध्मानच्छर्दिहिक्काऽश कासश्वासप्रपीडितः ४
गुदशोफातिसारार्त्तो विषूचीकुष्ठसंयुतः
गर्भिणी मधुमेही च नास्थाप्यश्च जलोदरी ५
निरूहणबस्तियोग्या जनाः
वातव्याधावुदावर्त्ते वातासृग्विषमज्वरे
मूर्च्छातृष्णोदरानाहमूत्रकृच्छ्राश्मरीषु च ६
वृद्धासृग्दरमन्दाग्निप्रमेहेषु निरूहणम्
शूलेऽम्लपित्ते हृद्रो गे योजयेद्विधिवद् बुधः ७
निरूहबस्तिदानविधिः
उत्सृष्टानिलविण्मूत्रं स्निग्धस्विन्नमभोजितम्
मध्याह्ने गृहमध्ये च यथायोग्यं निरूहयेत् ८
स्नेहबस्तिविधानेन बुधः कुर्यान्निरूहणम्
जाते निरूहे च ततो भवेदुत्कटकासनः ९
तिष्ठेन्मुहूर्त्तमात्रं तु निरूहागमनेच्छया
अनायातं मुहूर्तं तु निरूहं शौधनैर्ह रेत्
निरूहैरेव मतिमान्क्षारमूत्राम्लसैन्धवैः १०
सुनिरूढलक्षणम्
यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः
लाघवं चोपजायेत सुनिरूहं तमादिशेत् ११
दुर्निरूढलक्षणम्
यस्य स्याद्बस्तिरल्पाल्पवेगो हीनमलानिलः
मूर्च्छार्त्तिजाड्यारुचिमान्दुर्निरूहं तमादिशेत् १२
निरूहस्य बस्तिदानविधेयतानिर्देशः
अनेन विधिना युञ्ज्यान्निरूहं बस्तिदानवित् ॠ
द्वितीयं वा तृतीयं वा चतुर्थं वा यथोचितम् १३
भोजनक्रमः
पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात्
निरूहं भोजयित्वा च ततस्तदनुवासयेत् १४
मृदुबस्तियोग्या जनाः
सुकुमारस्य वृद्धस्य बालस्य च मृदुर्हितः
बस्तिस्तीक्ष्णः प्रयुक्तस्तु तेषां हन्याद् बलायुषी १५
उत्क्लेशनादिबस्तीनां प्रयोगकालनिर्देशः
दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं ततः
पश्चात्संशमनीयं च दद्याद्बस्तिं विचक्षणः १६
उत्क्लेशनबस्तिद्र व्याणि
एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा
हपुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः १७
दोषहरबस्तिद्र व्याणि
शताह्वा मधुकं बिल्वं कौटजं फलमेव च
सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः १८
शमनबस्तिद्र व्याणि
प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम्
सक्षीरः शस्यते बस्तिर्दोषाणां शमनः स्मृतः १९
शोधनबस्तिविधिः
शोधनद्र व्यनिष्क्वाथैस्तत्कल्कैः स्नेहसैन्धवैः
युक्त्या खजेन मथिता बस्तयः शोधनाः स्मृताः २०
लेखनबस्तिद्र व्याणि
त्रिफलाक्वाथगोमूत्रक्षौद्र क्षारसमायुताः
ऊषकादिप्रतीवापैर्बस्तयो लेखनाः स्मृताः २१
बृंहणबस्तिद्र व्याणि
बृंहणद्र व्यनिष्क्वाथकल्कैर्मधुरकैर्युताः
सर्पिर्मांसरसोपेता बस्तयो बृंहणाः स्मृताः २२
पिच्छिलबस्तिद्र व्याणि
बदर्यैरावतीशेलुशाल्मलीधन्वनागराः
क्षीरसिद्धाः क्षौद्र युक्ता नाम्ना पिच्छिलसंज्ञिताः २३
अजोरभ्रैणरुधिरैर्युक्ता देया विचक्षणैः
मात्रा पिच्छिलबस्तीनां पलैर्द्वादशभिर्मता २४
निरूहार्थं द्र व्याणां परिमाणपूर्वकं विधानम्
दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्
विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतित्रयम् २५
एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्
संमूर्च्छिते कषायं तु चतुःप्रसृतिसंमितम् २६
क्षिप्त्वा विमथ्य दद्याच्च निरूहं कुशलो भिषक्
वाते चतुष्पलं क्षौद्रं दद्यात्स्नेहस्य षट्पलम् २७
पित्ते चतुष्पलं क्षौद्रं स्नेहं दद्यात्पलत्रयम्
कफे च षट्पलं क्षौद्रं क्षिपेत्स्नेहं चतुष्पलम् २८
मधुतैलिकबस्तिविधिः
एरण्डक्वाथतुल्यांशं मधु तैलं पलाष्टकम् २९
शतपुष्पापलार्धेन सैन्धवार्धेन संयुतम्
मधुतैलिकसंज्ञोऽय बस्तिः खजविलोडितः ३०
मेदोगुल्मकृमिप्लीहमलोदावर्त्तनाशनः
बलवर्णकरश्चैव वृष्यो दीपनबृंहणः ३१
दीपनबस्तिविधिः
क्षौद्रा ज्यक्षीरतैलानां प्रसृतं प्रसृतं भवेत्
हपुषासैन्धवाक्षांशो बस्तिः स्याद्दीपनः परः ३२
युक्तरथबस्तिविधिः
एरण्डमूलनिष्क्वाथो मधु तैलं ससैन्धवम्
एष युक्तरथो बस्तिः सवचापिप्पलीफलः ३३
सिद्धबस्तिविधिः
पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु
ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः ३४
पथ्यापथ्यम्
स्नानमुष्णोदकैः कुर्याद्दिवास्वप्नमजीर्णताम्
वर्जयेदपरं सर्वमाचरेत्स्नेहबस्तिवत् ३५
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे निरूहबस्तिविधिर्नाम षष्ठोऽध्यायः